।। शुक्र कवचम् II
अथ शुक्र कवचम्
अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य भारद्वाज ऋषिः I
अनुष्टुप् छन्दः I शुक्रो देवता I
शुक्रप्रीत्यर्थं जपे विनियोगः II
मृणालकुन्देन्दुषयोजसुप्रभं पीतांबरं प्रस्रुतमक्षमालिनम् I
समस्तशास्त्रार्थनिधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये II
ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः I
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनदयुतिः II
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः I
जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् II
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः I
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः II
कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः I
जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः II
गुल्फ़ौ गुणनिधिः पातु पातु पादौ वरांबरः I
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः II
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः I
न तस्य जायते पीड़ा भार्गवस्य प्रसादतः II
II इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णं II