विष्णोषोड़शनामस्तोत्रं | Vishnushodashnamstrotam

विष्णोषोड़शनामस्तोत्रं

औषधे चिन्तयेद विष्णुं भोजने च जनार्दनं

शयने पद्मनाभं च विवाहे च प्रजापतिम

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमं

 

नारायणं तनुत्यागे श्रीधरं प्रियसंगमे

दु:स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम

कानने नरसिहं च पावके जलशायिनम

 

जलमध्ये वराहं च पर्वते रघुनंदनम

गमने वामनं चैव सर्वकार्येषु माधवं

षोडश-एतानि नामानि प्रातरुत्थाय य: पठेत

सर्वपाप विनिर्मुक्तो विष्णुलोके महीयते

 

। इति विष्णो षोड़शनाम स्तोत्रं सम्पूर्णं ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top