।। तुलसीकवचम् ।।
।। Tulasi Kavacham ।।
अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः ।
अनुष्टुप्छन्दः । श्रीतुलसी देवता ।
मम ईप्सितकामनासिद्ध्यर्थं जपे विनियोगः ।
तुलसी श्रीमहादेवि नमः पङ्कजधारिणि ।
शिरो मे तुलसी पातु भालं पातु यशस्विनी ॥ १॥
दृशौ मे पद्मनयना श्रीसखी श्रवणे मम ।
घ्राणं पातु सुगन्धा मे मुखं च सुमुखी मम ॥ २॥
जिह्वां मे पातु शुभदा कण्ठं विद्यामयी मम ।
स्कन्धौ कह्लारिणी पातु हृदयं विष्णुवल्लभा ॥ ३॥
पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी ।
कटिं कुण्डलिनिं पातु ऊरू नारदवन्दिता ॥ ४॥
जननी जानुनी पातु जङ्घे सकलवन्दिता ।
नारायणप्रिया पादौ सर्वाङ्गं सर्वरक्षिणी ॥ ५॥
सङ्कटे विषमे दुर्गे भये वादे महाहवे ।
नित्यं हि सन्ध्ययोः पातु तुलसी सर्वतः सदा ॥ ६॥
इतीदं परमं गुह्यं तुलस्याः कवचामृतम् ।
मर्त्यानाममृतार्थाय भीतानामभयाय च ॥ ७॥
मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् ।
वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥ ८॥
द्रविणाय दरिद्राणां पापिनां पापशान्तये ॥ ९॥
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छिताम् ।
पशव्यं पशुकामानां पुत्रदं पुत्रकाङ्क्षिणाम् ॥ १०॥
राज्याय भ्रष्टराज्यानामशान्तानां च शान्तये ।
भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥ ११॥
जाप्यं त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः ।
उद्यन्तं चण्डकिरणमुपस्थाय कृताञ्जलिः ॥ १२॥
तुलसीकानने तिष्ठन्नासीनो वा जपेदिदम् ।
सर्वान्कामानवाप्नोति तथैव मम सन्निधिम् ॥ १३॥
मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् ।
या स्यान्मृतप्रजा नारी तस्या अङ्गं प्रमार्जयेत् ॥ १४॥
सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् ।
वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः ॥ १५॥
साऽपि संवत्सरादेव गर्भं धत्ते मनोहरम् ।
अश्वत्थे राजवश्यार्थी जपेदग्नेः सुरूपभाक् ॥ १६॥
पलाशमूले विद्यार्थी तेजोऽर्थ्यभिमुखो रवेः ।
कन्यार्थी चण्डिकागेहे शत्रुहत्यै गृहे मम ॥ १७॥
श्रीकामो विष्णुगेहे च उद्याने स्त्रीवशा भवेत् ।
किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः ॥ १८॥
यं यं काममभिध्यायेत्तं तं प्राप्नोत्यसंशयम् ।
मम गेहगतस्त्वं तु तारकस्य वधेच्छया ॥ १९॥
जपन् स्तोत्रं च कवचं तुलसीगतमानसः ।
मण्डलात्तारकं हन्ता भविष्यसि न संशयः ॥ २०॥
।। इति श्रीब्रह्माण्डपुराणे तुलसीमाहात्म्ये तुलसीकवचं सम्पूर्णम् ॥