सूर्य अष्टकम् | Surya Ashtakam

।। सूर्य अष्टकम् ।।

 

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥१

 

सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।

श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ।।२

 

लोहितं  रथमारूढं  सर्वलोक पितामहम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३

 

त्रैगुण्यश्च महाशूरं ब्रह्माविष्णु महेश्वरम् ।

महापापहरं  देवं तं  सूर्यं  प्रणमाम्यहम् ॥४

 

बृहितं तेजः  पुञ्ज च वायु आकाशमेव च ।

प्रभुत्वं सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५

 

 बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।

 एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६

 

तं सूर्यं लोककर्तारं महा तेजः प्रदीपनम् ।

महापाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥७

 

 तं सूर्यं जगतां नाथं ज्ञानप्रकाशमोक्षदम् ।

 महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८

 

 सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।

 अपुत्रो लभते पुत्रं दारिद्रो धनवान् भवेत् ॥९

 

 अमिषं  मधुपानं च  यः करोति रवेर्दिने ।

 सप्तजन्मभवेत् रोगि जन्मजन्म दरिद्रता ॥१०

 

स्त्री-तैल-मधु-मांसानि ये त्यजन्ति रवेर्दिने ।

 न व्याधि शोक दारिद्र्यं सूर्य लोकं च गच्छति ॥११

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top