श्रीमहालक्ष्मीकवचम् । Shrimahalaxhmikavacham

।। श्रीमहालक्ष्मीकवचम् ।।

अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः

महालक्ष्मीर्देवता महालक्ष्मीप्रीत्यर्थं जपे विनियोगः ।

इन्द्र उवाच । समस्तकवचानां तु तेजस्वि कवचोत्तमम् ।

आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ १॥

 

श्रीगुरुरुवाच । महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः ।

चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ २॥

 

ब्रह्मोवाच । शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा ।

चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ ३॥

 

घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी ।

मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ॥ ४॥

 

स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी ।

बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ॥ ५॥

 

वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी ।

कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ॥ ६॥

 

कटिं च पातु वाराही सक्थिनी देवदेवता ।

ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ॥ ७॥

 

इन्दिरा पातु जंघे मे पादौ भक्तनमस्कृता ।

नखान् तेजस्विनी पातु सर्वाङ्गं करूणामयी ॥ ८॥

 

ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः ।

ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ॥ ९॥

 

कवचेनावृताङ्गनां जनानां जयदा सदा ।

मातेव सर्वसुखदा भव त्वममरेश्वरी ॥ १०॥

 

भूयः सिद्धिमवाप्नोति पूर्वोक्तं ब्रह्मणा स्वयम् ।

लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ॥ ११॥

 

नामत्रयमिदं जप्त्वा स याति परमां श्रियम् ।

यः पठेत्स च धर्मात्मा सर्वान्कामानवाप्नुयात् ॥ १२॥

 

॥ इति श्रीब्रह्मपुराणे इन्द्रोपदिष्टं महालक्ष्मीकवचं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top