केतुकवचम् । KetuKavacham

।। केतुकवचम् ।।

अथ केतुकवचम् 

अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः । 

अनुष्टप् छन्दः । केतुर्देवता । कं बीजं I नमः शक्तिः ।

केतुरिति कीलकम् । केतुप्रीत्यर्थं जपे विनियोगः ।।

केतु करालवदनं चित्रवर्णं किरीटिनम् । 

प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ।। 

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः । 

पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ।।

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः । 

पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः।।

हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः ।

सिंहासनः कटिं पातु मध्यं पातु महासुरः ।। 

ऊरुं पातु महाशीर्षो जानुनी मेऽतिकोपनः ।

पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः । 

य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।

सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् ।। 

 

।। इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं ।।

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top