बुधस्तोत्रम् | Budhstrotam

।। बुधस्तोत्रम् ।। 

 

ॐ नमो बुधाय विज्ञाय सोमपुत्राय ते नमः ।

रोहिणीगर्भसम्भूत कुङ्कुमच्छविभूषित ॥ १॥

 

सोमप्रियसुताऽनेकशास्त्रपारगवित्तम ।

रौहिणेय नमस्तेऽस्तु निशाकामुकसूनवे ॥ २॥

 

पीतवस्त्रपरीधान स्वर्णतेजोविराजित ।

सुवर्णमालाभरण स्वर्णदानकरप्रिय ॥ ३॥

 

नमोऽप्रतिमरूपाय रूपानां प्रियकारिणे ।

विष्णुभक्तिमते तुभ्यं चेन्दुराजप्रियङ्कर ॥ ४॥

 

सिंहासनस्थो वरदः कर्णिकारसमद्युतिः ।

खड्गचर्मगदापाणिः सौम्यो वोऽस्तु सुखप्रदः ॥ ५॥

 

स्थिरासनो महाकायः सर्वकर्मावबोधकः ।

विष्णुप्रियो विश्वरूपो महारूपो महेश्वरः ॥ ६॥

 

बुधाय विष्णुभक्ताय महारूपधराय च ।

सोमात्मजस्वरूपाय पीतवस्त्रप्रियाय च ॥ ७॥

 

अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ।

सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ॥ ८॥

 

सत्यवादी खड्गहस्तो ग्रहपीडानिवारकः ।

सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ९॥

 

एतानि बुधनामानि प्रातरुत्थाय यः पठेत् ।

न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ॥ १०॥

 

इत्येतत्स्तोत्रमुत्थाय प्रभाते पठते नरः ।

न तस्य पीडा बाधन्ते बुद्धिभाक्च भवेत्सुधीः ॥ ११॥

 

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।

बुधो बुद्धिप्रदाता च सोमपुत्रो महाद्युतिः ।

आदित्यस्य रथे तिष्ठन्स बुधः प्रीयतां मम ॥ १२॥

 

इति बुधस्तुतिः समाप्ता ।

 

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top