बृहस्पतिकवचम् | Brihaspatikavacham

||बृहस्पतिकवचम्||

अथ बृहस्पतिकवचम् 

अस्य श्रीबृहस्पतिकवचस्तोत्रमंत्रस्य ईश्वरऋषिः I 

अनुष्टुप् छंदः I गुरुर्देवता I गं बीजं श्रीशक्तिः I 

क्लीं कीलकम् I गुरुपीडोपशमनार्थं जपे विनियोगः II 

 

अभीष्टफलदं देवं सर्वज्ञम् सुर पूजितम् I 

अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् II 

बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः I 

कर्णौ सुरगुरुः पातु नेत्रे मे अभीष्ठदायकः II 

जिह्वां पातु सुराचार्यो नासां मे वेदपारगः I 

मुखं मे पातु सर्वज्ञो कंठं मे देवतागुरुः II 

भुजावांगिरसः पातु करौ पातु शुभप्रदः I 

स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः II 

नाभिं केवगुरुः पातु मध्यं पातु सुखप्रदः I 

कटिं पातु जगवंद्य ऊरू मे पातु वाक्पतिः II 

जानुजंघे सुराचार्यो पादौ विश्वात्मकस्तथा 

अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः II

इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः I 

सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् II 

 

II इति श्रीब्र्ह्मयामलोक्तं बृहस्पतिकवचं संपूर्णम्

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top