अङ्गारकस्तोत्रम्| Angarakstrotam

।। अङ्गारकस्तोत्रम् ।। 

 

अस्य श्री अङ्गारकस्तोत्रस्य विरूपाङ्गिरस ऋषिः 

अग्निर्देवता गायत्री छन्दः भौमप्रीत्यर्थं जपे विनियोगः ।

 

अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः ।

कुमारो मङ्गलो भौमो महाकायो धनप्रदः ॥ १॥

 

ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः ।

विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥ २॥

 

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः ।

लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥ ३॥

 

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः ।

नामान्येतानि भौमस्य यः पठेत्सततं नरः ॥ ४॥

 

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति ।

धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥ ५॥

 

वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः ।

योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः ॥ ६॥

 

सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥ ७॥

 

॥ इति श्रीस्कन्दपुराणे अङ्गारकस्तोत्रं संपूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top