षोडशगणपतिस्तवम् | Shodashaganapatistavam

।। षोडशगणपतिस्तवम् ।।

 

प्रथमं बालविघ्नेशं द्वितीयं तरुणं तथा ।

तृतीयं भक्तविघ्नेशं चतुर्थं वीरविघ्नकम् ॥

 

पञ्चमं शक्तिविघ्नेशं षष्ठं ध्वजगणाधिपम् ।

सप्तमं पिङ्गलं देवं तथा चोच्छिष्टनायकम् ॥

 

नवमं विघ्नराजेन्द्रं दशमं क्षिप्रदायकम् ।

एकादशं तु हेरम्बं द्वादशं लक्ष्मिनायकम् ॥

 

त्रयोदशं महासंज्ञं भुवनेशं चतुर्दशम् ।

नृत्ताख्यं पञ्चदशं षोडशोर्ध्वगणाधिपम् ॥

 

स्तोत्रं तु विघ्नराजस्य कथ्यते षोडशात्मकम् ।

धर्मार्थकाममोक्षार्थं नराणां येन विद्यते ॥

 

॥ इति षोडशगणपतिस्तवम् सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top