भौमस्तोत्रम् | Bhoum strotam

।। भौमस्तोत्रम् ।।

 

ॐ उदयभूधरशिखरकोटरचर दिवाकरसन्निभ

कुङ्कुमदहनविद्रुमललितपद्मदलाचलद्युते ।

ललिततुण्डविचित्रशिखण्डनकुलकुलाधिपवाहन

कुरु महीसुत सिद्ध सुसेवितपादसरोज मयि कृपाम् ॥ १॥

 

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।

स्थिरासनो महाकायःसर्वकर्मावबोधकः ॥ २॥

 

लोहितो लोहिताङ्गश्च सामगायी कृपाकरः ॥ ३॥

 

धर्मराजः कुजो भौमो भूमिजो भूमिनन्दनः ।

अङ्गारको यमश्चैव सर्वरोगापहारकः ॥ ४॥

 

सृष्टिकर्ताऽपहर्ताच सर्वकामफलप्रदः ।

भूतिदो ग्रहपूज्यश्च वक्रो रक्तवपुः प्रभुः ॥ ५॥

 

एतानि कुजनामानि यो नित्यं प्रयतः पठेत् ।

ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ ६॥

 

रक्तपुष्पैश्च गन्धैश्च दीपधूपादिभिस्तथा ।

मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ७॥

 

ऋणरेखाः प्रकर्तव्या दग्धाङ्गारैस्तदग्रतः ।

सप्तविंशतिनामानि पठित्वा तु तदन्तिके ॥ ८॥

 

ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् ।

एवं कृत्वा न सन्देहः ऋणहीनो धनी भवेत् ॥ ९॥

 

भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति ।

येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ १०॥

 

शत्रवश्च हता येन भौमेन महितात्मना ।

स प्रीयतां तु भौमोऽद्य तुष्टो भूयात्सदा मम ॥ ११॥

 

। इति भौमस्तोत्रं सम्पूर्णम् ।

और पढ़े
राहुस्तोत्रम् ,

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top