प्रातःस्मरणमङ्गलस्तोत्रम् | Pratahsmaran mangalstrotam

।। प्रातःस्मरणमङ्गलस्तोत्रम् ।। 

 

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।

उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ १॥

 

मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः ।

मङ्गलं पुण्डरीकाक्षः मङ्गलायतनं हरिः ॥ २॥

 

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ३॥

 

नमो ब्रह्मण्यदेवाय गो -ब्राह्मण -हिताय च ।

जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ४॥

 

कृष्णाय वासुदेवाय देवकीनन्दनाय च ।

नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ५॥

 

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ६॥

 

इति प्रातःस्मरणमङ्गलस्तोत्रं समाप्तम् ।

 

————————————- ——————



Ref   
बृहत स्त्रोत्र रत्नाकर

 

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top