अथ श्रीबुधकवचं | Shri Budh Kavacham

II अथ श्रीबुधकवचं II 

 

अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I 

अनुष्टुप् छंदःI बुधो देवता I 

बुधपीडाशमनार्थं जपे विनियोगः II 

बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः I 

पितांबरधरः पातु पितमाल्यानुलेपनः II 

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा I 

नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः II 

घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम I 

कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः II 

वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः I 

नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः II 

जानुनी रौहिणेयश्च पातु जंघेऽखिलप्रदः I 

पादौ मे बोधनः पातु पातु सौम्योऽखिलं वपु II

एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् I 

सर्व रोगप्रशमनं सर्व दुःखनिवारणम् II 

आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् I 

यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् II 

 

 II इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं II

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top