बृहस्पतिस्तोत्रम् | Brihaspati strotam

।। बृहस्पतिस्तोत्रम् ।।

 

ॐ चराचरगुरुं नौमि गुरुं सर्वोपकारकम् ।

यस्य सङ्कीर्तनादेव क्षणादिष्टं प्रजायते ॥ १॥

 

वृहस्पतिः सुराचार्यो नीतिज्ञो नीतिकारकः ।

गुरुर्जीवोऽथ वागीशो वेदवेत्ता विदांवरः ॥ २॥

 

सौम्यमूर्तिः सुधादृष्टिः पीतवासाः पितामहः ।

अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ॥ ३॥

 

सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ।

सत्यधामाऽक्षमाली च ग्रहपीडानिवारकः ॥ ४॥

 

पञ्चविंशतिनामानि गुरुं स्मृत्वा तु यः पठेत् ।

आयुरारोग्यसम्पन्नो धनधान्यसमन्वितः ॥ ५॥

 

जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ।

कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥ ६॥

 

तदेतत्पठनादेव दह्यतेऽग्निरिवेन्धनम् ।

गुरोर्दिनेऽर्चयेद्यस्तु पीतवस्त्रानुलेपनैः ॥ ७॥

 

धूपदीपोपहारैश्च विप्रभोजनपूर्वकम् ।

पीडाशान्तिर्भवेत्तस्य स्वयमाह बृहस्पतिः ॥ ८॥

 

मेरुमूर्ध्नि समाक्रान्तो देवराजपुरोहितः ।

ज्ञाता यः सर्वशास्त्राणां स गुरुः प्रीयतां मम ॥ ९॥

 

। इति बृहस्पतिस्तोत्रम् सम्पूर्णम ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top