मंगल कवचम् | Mangal Kavacham

।। मंगल कवचम् II 

अथ मंगल कवचम् 

अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः I 

अनुष्टुप् छन्दः I अङ्गारको देवता I 

भौम पीडापरिहारार्थं जपे विनियोगः I 

 

रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् I 

धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः II 

अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः I 

श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः II 

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः I 

भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा II 

वक्षः पातु वरांगश्च हृदयं पातु लोहितः I 

कटिं मे ग्रहराजश्च मुखं चैव धरासुतः II

जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा I 

सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः II

या इदं कवचं दिव्यं सर्वशत्रु निवारणम् I 

भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् II

सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् I 

भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् II 

रोगबंधविमोक्षं च सत्यमेतन्न संशयः II 

 

II इति श्रीमार्कण्डेयपुराणे मंगलकवचं संपूर्णं।।

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top