श्रीगणेशाष्टकम्। Shri Ganesha Ashtak

।।श्रीगणेशाष्टकम्।।

 

गिरिस्वामिकन्यावराङ्गे वसन्तं

सुरस्वामिनं केलिरूपं हसन्तम् ।

लघुस्थूलविघ्नं विनिनन्तमाओं

सदानन्दरूपं गणेशं भजेऽहम् ॥ १॥

 

अजं तुन्दिलं व्योमधर्मोपमेयं

भृशं दन्तपाणिं सुजातैकदन्तम् ।

गले हास्तिकं नागयज्ञोपवीतं

सदानन्दरूपं गणेशं भजेऽहम् ॥ २॥

 

विभुं निर्मलं शर्वपुत्रं सुरेशं (गौरिपुत्रं)

शिवं शूलिवत्रा गणेशानमीशम् ।

कणत्किङ्किणीनालपादौ वहन्तं

सदानन्दरूपं गणेशं भजेऽहम् ॥ ३॥

 

दौर्वेष्टितं विघ्नविध्वंसुवर्गैः

सुरैर्मण्डितैर्यज्ञयज्ञोत्तमाङ्गम् ।

गुणातीतमव्यक्तमेकं तुरीयं

सदानन्दरूपं गणेशं भजेऽहम ॥ ४॥

 

नरं सिन्धुरं पञ्चवक्त्रं विचित्रं

वयोयोगिनं भोगनाथं महेशम् ।

करं कारिणं कामिनं नागरूपं

सदानन्दरूपं गणेशं भजेऽहम् ॥ ५॥

 

मुदा हायनं लोककर्तारमाद्यं (लोकस्रष्टारमाद्यं)

लसत्केतुना बद्धहस्तैकपोतम् ।

सदोमालिनं देवलोकैकपूतं

सदानन्दरूपं गणेशं भजेऽहम् ॥ ६॥

 

जगत्कारणं तर्कवेदान्तवेद्यं

मुदा योगगम्यं विशुद्धाट्टहासम् ।

शरण्यं वरेण्यं विशुद्धं तमाचं

सदानन्दरूपं गणेशं भजेऽहम् ॥ ७॥

 

प्रियासिद्धिभाजे धिया वामभागे

लसन्माद्विकावामदेवं त्रिणेत्रम् ।

अमोघं सुरेशं महेशानमीशं

सदानन्दरूपं गणेशं भजेऽहम् ॥ ८॥

 

॥ इति श्रीगणेशाष्टकं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

close
Scroll to Top