।। श्रीमहागणपतिकवचम् ।। Shri Mahaganapati Kavacham।।
श्रीमहागणपतिकवचम्
श्रीगणाधिपतये नमः ।
श्रीमहागणपतये नमः ।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥
श्रीगुरुभ्यो नमः ।
श्रियं गणपतिं दुर्गां वटुकं शिवमच्युतम् ।
ब्रह्माणं गिरिजां लक्ष्मीं वाणीं वन्दे विभूतये ॥ २॥
वन्दे गुरुपदद्वन्द्वमवासनमगोचरम् ।
रक्तशुक्लप्रभा मिश्रमतर्क्यं त्रैपुरं महः ॥ ३॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलनं येन तस्मै श्रीगुरवे नमः ॥ ४॥
अस्मत्-श्रीगुरुपादुकाभ्यो नमः ।
श्रीशिवाय नमः ।
ॐ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ ५॥
अगजाननपद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ ६॥
अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ ७॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरू रुद्रो महेश्वरः ।
गुरुः सदाशिवः सर्व स्तस्मै श्रीगुरवे नमः ॥ ८॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ ९॥
यं ब्रह्म वेदान्तविदो वदन्ति
परं प्रधानं पुरुषं तथान्ये ।
विश्वोद्गतेः कारणमीश्वरं वा
तस्मै नमो विघ्नविनायकाय ॥ १०॥
उमासुतं देववरप्रसादं
हरस्य पुत्रं गणवृन्दसेव्यम् ।
सुरासुराणां परमं पवित्रं
विनायकं शूरमहं प्रपद्ये ॥ १॥ (शरणमहम्)
श्रीपार्वत्युवाच-
ॐ मन्नाथ जगतां नाथ मम प्रेरणकारण ।
गणेशस्य तु यन्मन्त्रं श्रुतं देव महेश्वर ॥ २॥
इदानीं श्रोतुमिच्छामि कवचं तस्य दुर्लभम् ।
तद्वदस्व दयासिन्धो कृपया मम शङ्कर ॥ ३॥
श्री ईश्वर उवाच-
शृणु देवि महाभागे गणेशकवचं परम् ।
यद्धृत्वा पठनात् सद्यो विघ्ननाशो भविष्यति ॥ ४॥
विष्णुना कथितं पुण्यं कवचं ब्रह्मणे मुदा ।
पठित्वा कृतवान् सृष्टिमेकभावः पितामहः ॥ ५॥
कवचस्यास्य देवस्य ऋषिर्देवो महेश्वरः ।
छन्दो विराट् देवता च गणेशो विघ्ननायकः ।
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ ६॥
श्रीमहागणपतये नमः
ॐ अस्य श्रीमहागणपतिकवचस्तोत्रमहामन्त्रस्य,
श्रीमहेश्वर ऋषिः, विराट् छन्दः, श्रीमहागणपतिर्देवता ।
श्रीमहागणपतिप्रसादसिद्ध्यर्थे धर्मार्थकाममोक्ष-
चतुर्विधफलपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।
ॐ गं पातु मस्तकं देवो गणनाथो महाबलः ।
एकाक्षरो महामन्त्रो सर्वदेवनमस्कृतः ॥ ७॥
ॐ श्रीं ह्रीं क्लीं में च वदनं ग्लौं गं गणपते हृदयम् ।
वरद वरद मे नाभिदेशं सर्वजनं मे वशमानय ॥ ८॥
वसु बीजाक्षरो मन्त्रो वह्निजायात्मकस्तथा ।
सर्वाङ्गं मे सदा पातु सर्वदेवसुपूजितः ॥ ९॥
ह्रीं विरितिरि गणपति चैवावर वर वरद सर्वलोकं तथा ।
पातु मूलाधार नियतं मे वशमानय स्वाहा ॥ १०॥
षड् विंशत्यक्षरो मन्त्रो (नॄणां) शीघ्रकालफलपदः ।
पातु मां परितो देवः सर्वधर्मसमावृतम् ॥ ११॥
ह्रीं गं ह्रीं मम सर्व टङ्गं पातु श्रीमहागणपतये ।
वह्निजायात्मको मन्त्रो द्वादशाक्षरसंयुतः ॥ १२॥
राजद्वारेजले मध्ये शून्ये गेहे श्मशानके ।
(श्री) महागणपतिः पातु सर्वशत्रुनिबर्हणः ॥ १३॥
ह्रीं गं श्रीं वशमानय द्वयेन समाद्यतः । (?)
दशाक्षरो महामन्त्रो सर्वकार्येषु रक्षतु ॥ १४॥
गं क्षिप्रप्रसादनाय नमोऽन्तश्च महामनुः ।
दशाक्षरो मन्त्रराजो दशदिक्षु सदावतु ॥ १५॥
हूं वक्रतुण्डाय नमः पातु मां दुर्गमेषु च ।
हुं वक्रतुण्डाय हुं च पातु मे नृहमेधयोः(?) ॥ १६॥
ॐ ग्रं नमः पातु नित्यं वेदवर्णात्मको मनुः ।
सर्वकार्येषु सर्वत्र पातु मां पार्वतीसुतः ॥ १७॥
इति ते कथितं भद्रे कवचं परमाद्भुतम् ।
पठित्वा धारयित्वा च सर्वमाशु समालभेत् ॥ १८॥
सकृद्वा यस्तु पठति कवचं देवदुर्लभम् । (पठितः)
सर्वसिद्धियुतो भूत्वा देवतुल्यो भवेन्नरः ॥ १९॥
ब्रह्मास्त्रादीनि चास्त्राणि तद्गात्रं प्राप्य पार्वति ।
माल्यानि चम्पकान्येव भविष्यन्ति न संशयः ॥ २०॥
रामोऽपि कवचं धृत्वा जघानाशु निशाचरान् । (कृत्वा)
धृत्वा तु कवचं लोके कुबेरोऽपि धनेश्वरः ॥ २१॥ (कृत्वा)
इन्द्रोऽमरावतीं लब्ध्वा पठनात् कवचस्य तु ।
देवनामाधिपत्यं वै तथावाप महेश्वरि ॥ २२॥
सृष्टिं वितनुते ब्रह्मा स्थितिं वितनुते हरिः ।
संहारं तनुते रुद्रोऽप्यहमेव न संशयः ॥ २३॥
भजेद्विलिरूप कवचं धारयेद्भक्तितः परम् ।
यं यं चिन्तयते लोके तं तं प्राप्नोति सर्वदा ॥ २४॥
गन्धर्वो गायते धीरः सर्वलोकवशङ्करः ।
कामतुल्योऽपि नारीणां योगी योगपतिर्यथा ॥ २५॥
न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च ।
अप्रशिष्याय दुष्टाय कृतघ्नाय दुरात्मने ॥ २६॥
भक्तिश्रद्धाविहीनाय परनिन्दापराय च ।
यो ददाति निषिद्धेभ्यो कवचं परमाद्भुतम् ॥ २७॥
तस्य नश्यन्ति देवेशि पुत्रायुःकीर्तिसम्पदः ।
शिष्याय भक्तियुक्ताय गुरुभक्तिरताय च ॥ २८॥
शान्ताय विष्णुभक्ताय शिवपूजापराय च ।
देव्यर्चनपरायास्मै स्वजनाय महात्मने ॥ २९॥
ददाति चेद्यत् कवचं शीघ्रसिद्धिप्रदं भवेत् ।
एतत् कवचमज्ञात्वा यो जपेच्च गणाधिपम् ॥ ३०॥
दारिद्रं परमं लब्ध्वा सोऽचिरान्मृत्युमाप्नुयात् । (योऽचिरान्)
ज्ञात्वा तु कवचं यो वै जपेद्भक्तिपुरःसरम् ॥ ३१॥
जगान्ते कवचं दिव्यं पठेन्नित्यं नियन्त्रितः ।
सर्वान् कामान् समासाद्य गणेशस्य प्रियो भवेत् ॥ ३२॥
॥ इति श्रीरुद्रयामले श्रीपार्वतीपरमेश्वरसंवादे
श्रीमहागणपतिकवचं समाप्तम् ॥